2026-02-22 23:57:57 by ambuda-bot
This page has not been fully proofread.
५६
शिवपादादिकेशान्तवर्णनस्तोत्रम्
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृय: पादैश्चतुर्भिः कनकमणिमयैरुच्च कैरुज्ज्वलात्मा ।
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्री:
पीठ: पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजी परिमृदुलतलोल्लासिपद्मादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसञ्चारुहीर-
श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभो: संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं नः समयं सकलसुखकरे नूपुरे पूरयेताम् ॥
अङ्गे शृङ्गारयोः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमप्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्करयत्त-
संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेनः ॥ १८ ॥