This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 

५५</ignore>
<verse>
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
 
५५
 

न्वाणीनिर्धूतवाणी करतलविधृतोदारवीणाविरावान् ।
 

एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे

शोणान्प्राणानुदृदू प्रतिनवसुषमाकन्दला निन्दुमौलेः ॥
 
</verse>
<verse>
नृत्तारम्भेषु हस्ताहतमुरजाधिमिद्धिधिंकृतैरत्युदारै-
 

श्
चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी ।

चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-

रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृबृढाः पान्तु संतोषिणो नः ॥
 
</verse>
<verse>
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं

प्रत्युप्तानर्धर रत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।

उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
 

हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥
 
</verse>
<verse>
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं

शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।

कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः
 

शंभो:भोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥
 
</verse>
</page>