2026-02-22 23:57:58 by ambuda-bot
This page has not been fully proofread.
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
५५
न्वाणीनिर्धूतवाणी करतलविधृतोदारवीणाविरावान् ।
एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदृढ प्रतिनवसुषमाकन्दला निन्दुमौलेः ॥
नृत्तारम्भेषु हस्ताहतमुरजाधिमिद्धिकृतैरत्युदारै-
चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी ।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु संतोषिणो नः ॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्धर नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं
शुम्भत्सोपानमार्ग शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।
कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपकैः
शंभो: संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥