This page has been fully proofread once and needs a second look.

<page>
<ignore>
५४
 
</ignore>
<ignore>
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
</ignore>
<verse>
निर्यद्दानाम्बुधारापरिमलतरलीभूत रोलम्बपाली-

झंकारैः शंकराद्रेः शिखरशतदरी:रीः पूरयन्भूरिघोषैः ।

शार्व:वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता

शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥
 
</verse>
<verse>
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-

द्यन्नानि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।

भूयात्सोऽयं विभूत्यै निशितशरशिखा पाटितक्रौञ्चशैलः

संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥
 
</verse>
<verse>
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुझं तुरङ्गं
 
तुरङ्गं
चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।

रागद्वेषादिनानाविधमृगपटली भीतिकृद्भूतभर्ता.

कुर्वन्नाखेलीलां परिलसतु मनः कानने मामकीने ॥ ९ ॥
 
</verse>
<verse>
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-

र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।

अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः
 

शंभो:भोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥
 
</verse>
</page>