2026-02-22 23:57:57 by ambuda-bot
This page has not been fully proofread.
५४
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
निर्यद्दानाम्बुधारापरिमलतरलीभूत रोलम्बपाली-
झंकारैः शंकराद्रेः शिखरशतदरी: पूरयन्भूरिघोषैः ।
शार्व: सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
द्यन्नानि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखा पाटितक्रौञ्चशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुझं तुरङ्गं
चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटली भीतिकृद्भूतभर्ता.
कुर्वन्नाखेलीलां परिलसतु मनः कानने मामकीने ॥ ९ ॥
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः
शंभो: संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥