This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
</ignore>
<ignore>१३</ignore>
<verse>
आतङ्कावेगहारी सकलदिविषदामङ्गिघ्रिपद्माश्रयाणां

मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
 

क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व-

न्
घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥
 
</verse>
<verse>
कालारातेः कराग्रे कृतवसतिरुरः <fix> </fix>शाणशातो रिपूणां

काले काले कुलाद्विप्रवरतनयया कल्पितस्नेहलेपः ।

पायान्नः पावकार्चि: 5
पः
चिःप्रसरसखमुखः पापहन्ता नितान्तं
 
१३
 

शूल:लः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
 
</verse>
<verse>
देवस्याङ्काश्रयाया:याः कुलगिरिदुहितुर्नेत्रकोणप्रचार-

प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।

आधत्ते भङ्गितुनैङ्गैरनिशमवयवैरन्तरङ्गं समोदं
 

सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥
 
</verse>
<verse>
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
 

कण्ठारावर वैरकुण्ठैरपि भरितजगञ्च्चक्रवालान्तरालः ।

चण्ड :डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
 

कण्ठे कालस्य वाहः शमयतु शमलं शाश्वतः शाक्रेन्द्रः ॥
 
</verse>
</page>