This page has not been fully proofread.

शिवपादादिकेशान्तवर्णनस्तोत्रम् ।
 
आतङ्कावेगहारी सकलदिविषदामङ्गिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
 
क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व-
घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥
 
कालारातेः कराग्रे कृतवसतिरुरः शाणशातो रिपूणां
काले काले कुलाद्विप्रवरतनयया कल्पितस्नेहलेपः ।
पायान्नः पावकार्चि: 5
पः प्रसरसखमुखः पापहन्ता नितान्तं
 
१३
 
शूल: श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
 
देवस्याङ्काश्रयाया: कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुनैरनिशमवयवैरन्तरङ्गं समोदं
 
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥
 
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
 
कण्ठारावर कुण्ठैरपि भरितजगञ्चक्रवालान्तरालः ।
चण्ड : प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
 
कण्ठे कालस्य वाहः शमयतु शमलं शाश्वतः शाक्करेन्द्रः ॥