This page has not been fully proofread.

॥ श्रीः ॥
 
शिवपादादिकेशान्त-
वर्णनस्तोत्रम् ॥
 
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
 
क्रीडासंसक्तविद्याधरनिकरवधूगीत रुद्रापदानः ।
 
तारैर्हेरम्ब नादैस्तरलितनिनदत्तारकारातिके की
 
कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ १ ॥
 
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दवकराणामपि च परिवृढः पूत्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥