This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<verse>
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः

स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।

माहात्म्याप्रग्रिविचारणप्रकरणे धानातुषस्तोमव-
 

द्धू
तास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
 

शिवानन्दलहरी संपूर्णा ॥
 
</trailer>
<ignore>
५१
 
</ignore>
</page>