2026-03-01 22:52:48 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>५०
</ignore>
<ignore>शिवानन्दलहरी ।
</ignore>
<verse>धैर्याङ्कशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥
</verse>
<verse>प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् ।
परिगृह्य नयेन भक्तिरजज्ज्वा
परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥
</verse>
<verse>सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णी
णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगत विनयां द्योतमानार्थरेखां
कल्याणीणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥
</verse>
<verse>इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥
</verse>
</page>
<ignore>५०
<ignore>शिवानन्दलहरी ।
<verse>धैर्याङ्कशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥
<verse>प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः
परिगृह्य नयेन भक्तिर
परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥
<verse>सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगत
कल्या
<verse>इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥
</page>