2026-02-22 23:57:45 by ambuda-bot
This page has not been fully proofread.
५०
शिवानन्दलहरी ।
धैर्याङ्कशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥
प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् ।
परिगृह्य नयेन भक्तिरजवा
परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥
सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णी
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगत विनयां द्योतमानार्थरेखां
कल्याणी देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥
इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥