2026-02-22 23:57:36 by ambuda-bot
This page has not been fully proofread.
४८
शिवानन्दलहरी ।
यदा कृताम्भोनिधिसेतुबन्धन:
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसंभव-
स्तदा शिवाचस्तवभावनक्षमः ॥ ८८ ॥
नतिभिर्नुतिभिस्त्वमीश पूजा-
विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ ८९ ॥
वचसा चरितं वदामि शंभो -
रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरख सेवे
शिरसा चैव सदाशिवं नमामि ॥ ९० ॥
आद्याविद्या हृद्रता निर्गतासी-
द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाजं
भावे मुक्तेर्भाजनं राजमौले ॥ ९१ ॥
शिवानन्दलहरी ।
यदा कृताम्भोनिधिसेतुबन्धन:
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसंभव-
स्तदा शिवाचस्तवभावनक्षमः ॥ ८८ ॥
नतिभिर्नुतिभिस्त्वमीश पूजा-
विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ ८९ ॥
वचसा चरितं वदामि शंभो -
रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरख सेवे
शिरसा चैव सदाशिवं नमामि ॥ ९० ॥
आद्याविद्या हृद्रता निर्गतासी-
द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाजं
भावे मुक्तेर्भाजनं राजमौले ॥ ९१ ॥