2026-02-22 23:57:32 by ambuda-bot
This page has not been fully proofread.
शिवानन्दलहरी ।
४७
शिव तव परिचर्यासंनिधानाय गौर्या
भव मम गुणधुर्थी बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्द सिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४ ॥
जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशन कुसुमभूषावस्त्रमुख्यां सपर्या
कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५ ॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
^
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६॥
अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शंभो
तव पादाम्बुजभक्तिमेव देहि ॥ ८७ ॥