This page has been fully proofread once and needs a second look.

<page>
<ignore>
४६
 
</ignore>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<verse>
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म
-
द्रारक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।

नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
 

प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥
 
</verse>
<verse>
कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः

कंचिज्द्ध्यानसमाधिभिश्व नतिभिः कंचित्कथाकर्णनैः ।

कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं

यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥
 
</verse>
<verse>
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
 

घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।

त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
 

पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥
 
</verse>
<verse>
जननमृतियुतानां सेवया देवतानां
 

न भवति सुखलेशः संशयो नास्ति तत्र ।

अजनिममृतरूपं साम्बमीशं भजन्ते
 

य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ॥
 
</verse>
</page>