This page has not been fully proofread.

४६
 
शिवानन्दलहरी ।
 
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म
द्रायै गिरिसनि कोमलपदन्यासः पुराभ्यासितः ।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
 
प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥
 
कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कंचिज्यानसमाधिभिश्व नतिभिः कंचित्कथाकर्णनैः ।
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥
 
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
 
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
 
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥
 
जननमृतियुतानां सेवया देवतानां
 
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
 
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ॥