This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<ignore>
४५
 
</ignore>
<verse>
भक्तिर्महेशपदपुष्करमावसन्ती
 

कादम्बिनीव कुरुते परितोषवर्षम् ।
 

संपूरितो भवति यस्य मनस्तटाक-
 

स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ ७६ ॥
 
</verse>
<verse>
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
 

सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
 

सद्भावनास्मरणदर्शन कीर्तनादि
 

संमोहितेव शिवमन्त्र जपेन विन्त्ते ॥ ७७ ॥
 
</verse>
<verse>
सदुपचारविधिष्वनुबोधितां
 

सविनयां सुहृदं समुपाश्रिताम् ।

मम समुद्धर बुद्धिमिमां प्रभो
 

वरगुणेन नवोढवधूमिव ॥ ७८ ॥
 
</verse>
<verse>
नित्यं योगिमनः सरोजदलसंचारक्षमस्त्वत्क्रमः

शंभो तेन कथं कठोरयमराडुड्वक्षः कवाटक्षतिः ।

अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-

त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९ ॥
 
</verse>
</page>