2026-02-22 23:57:30 by ambuda-bot
This page has not been fully proofread.
शिवानन्दलहरी ।
४५
भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् ।
संपूरितो भवति यस्य मनस्तटाक-
स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ ७६ ॥
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शन कीर्तनादि
संमोहितेव शिवमन्त्र जपेन विन्ते ॥ ७७ ॥
सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ ७८ ॥
नित्यं योगिमनः सरोजदलसंचारक्षमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराडुक्षः कवाटक्षतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९ ॥