This page has not been fully proofread.

४४
 
शिवानन्दलहरी ।
 
ध्यानाञ्जनेन समवेक्ष्य तमः प्रदेश
भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
 
ये पादपद्ममिह ते शिव ते कृतार्था: ॥ ७२ ॥
 
भूदारतामुदवहद्यदपेक्षया श्री-
 
भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
 
पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥
 
आशापाशक्लेशदुर्वासनादि -
भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
 
चेतःपेटीं वासितां मे तनोतु ॥ ७४ ॥
 
कल्याणिनं सरसचित्रगतिं सवेगं
 
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।
 
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
 

 
नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥