2026-03-01 22:39:47 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शिवानन्दलहरी ।
४३</ignore>
<verse>अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पद्दगोष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ ६८ ॥
</verse>
<verse>जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ॥
</verse>
<verse>अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणित फलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ ७०।
॥</verse>
<verse>आरूढभक्तिगुणकुञ्चितभावचाप-
युक्तैः शिवस्मरणबाणगणैरभोधैः ।
निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
४३
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥
</verse>
</page>
<ignore>शिवानन्दलहरी ।
४३</ignore>
<verse>अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्प
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ ६८ ॥
<verse>जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ॥
<verse>अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणित
जगदधिको हृदि राजशेखरोऽस्ति ॥ ७०
<verse>आरूढभक्तिगुणकुञ्चितभावचाप-
युक्तैः शिवस्मरणबाणगणैरभोधैः ।
निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
४३
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥
</page>