This page has not been fully proofread.

शिवानन्दलहरी ।
 
४१
 
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
 
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् ।
दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभो: पदाम्भोरुहम् ॥
 
अडोलं निजबीजसंततिरयस्कान्तोपलं सूचिका
 
साध्वी
 
विभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
 
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
 
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१ ॥
 
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचाशङ्खमुखे स्थितैश्व जठरापूर्ति चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
 
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ ६२ ॥
 
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
 
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
 
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३ ॥