This page has been fully proofread once and needs a second look.

<page>
<ignore>
४०
 
</ignore>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<verse>
नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे

सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्ष श्चिन्मूर्तये ।

मायासृष्टजगत्त्रयाय सकलान्म्नायान्तसंचारिणे

सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६ ॥
 
</verse>
<verse>
नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया

व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।

मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-

स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥
 
</verse>
<verse>
एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं

भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।

वेद्यः किं न भवस्योयहो घनतरं कीदृग्भवेन्मत्तम-

स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ ५८ ॥
 
</verse>
<verse>
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः

कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।

चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
 

गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९ ॥
 
</verse>
</page>