This page has not been fully proofread.

शिवानन्दलहरी ।
 
३९
 
कारुण्यामृतवर्षिणं घनविपद्रीष्मच्छिदाकर्मठं
 
विद्यास फलोदयाय सुमनः संसेव्यमिच्छाकृतिम् ।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
 
शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्वातकः ॥
 
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
नुग्राहिप्रणवोपदेशनिनदै: केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥
 
संध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-
 
ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।
 
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
 
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४ ॥
 
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
 
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।
 
ध्येयायाखिल योगिभिः सुरगणैर्गेयाय मायाविने
 
सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥