This page has been fully proofread once and needs a second look.

<page>
<ignore>३८</ignore>
<pignore>शिवानन्दलहरी ।</pignore>
<verse>नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्दिजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।
शुंभुध्यानसरोवरं ब्रज मनोहंसावतंस स्थिरं
किं क्षुद्राश्रयपल्वल भ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८ ॥</verse>
<verse>आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
स्थैयों पनमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
उच्चैर्मानसकायमान पटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ॥</verse>
<verse>संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥</verse>
<verse>भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-
ह्लादो नादयुतो महासितवपुः पश्चेषुणा चादृतः ।
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ ५१ ॥</verse>
</page>