This page has not been fully proofread.

३८
 
शिवानन्दलहरी ।
 
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
 
स्वच्छं सद्दिजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।
शुंभुध्यानसरोवरं ब्रज मनोहंसावतंस स्थिरं
 
किं क्षुद्राश्रयपल्वल भ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८ ॥
 
आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
 
स्थैयों पनमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
उच्चैर्मानसकायमान पटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ॥
 
संध्यारम्भविजृम्भितं श्रुतिशिरः स्थानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनः पूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥
 
भृङ्गाटनोत्कटः करिमदग्राही स्फुरन्माधवा-
हादो नादयुतो महासितवपुः पश्चेषुणा चादृतः ।
सत्पक्ष: सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
 
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ ५१ ॥