This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवानन्दलहरी ।
 

३७</ignore>
<verse>
करलग्नमृगः करीन्द्रभङ्गो
 

घनशार्दूलविखण्डनोऽस्तजन्तुः ।

गिरिशो विशदाकृतिश्च चेत:तः-
 

कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥
 
</verse>
<verse>
छन्दः शाखि शिखान्वितैर्द्विजवरे:रैः संसेविते शाश्वते

सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।

चेतः पक्षिशिखामणे त्यज वृथासंचारमन्यैरलं

नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥
 
</verse>
<verse>
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-

राधौतेऽपि च पद्मरागललिते हंसत्व्रजैराश्रिते ।

नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु

स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥
 
</verse>
<verse>
शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
 
३७
 
त्

स्
रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।

दीप्यन्ते गुणकोरका जपवचः पुष्पाणि सद्वासना

ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥
 
</verse>
</page>