2026-02-22 23:57:24 by ambuda-bot
This page has not been fully proofread.
शिवानन्दलहरी ।
करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः ।
गिरिशो विशदाकृतिश्च चेत:-
कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥
छन्दः शाखि शिखान्वितैर्द्विजवरे: संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतः पक्षिशिखामणे त्यज वृथासंचारमन्यैरलं
नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-
राधौतेऽपि च पद्मरागललिते हंसत्रजैराश्रिते ।
नित्यं भक्तिवधूगणैच रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथासौधान्तरे ॥
शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
३७
त्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यन्ते गुणकोरका जपवचः पुष्पाणि सद्वासना
ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥