This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवानन्दलहरी ।
 

३५</ignore>
<verse>
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मन:नः-
 

कुम्भे साम्ब तवापिङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।

सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
 

न्
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥
 
</verse>
<verse>
आम्नायाम्बुधिमादरेण सुमनः संघाः समुद्यन्मनो
 
३५
 

मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।

सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिणिं धीमतां

नित्यानन्दसुधां निरन्तररमा सौभाग्यमातन्वते ॥ ३७ ॥
 
</verse>
<verse>
प्राक्पुण्याचलमार्गदर्शित सुधामूर्तिः प्रसन्नः शिवः

सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचक:कः

चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः

प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥
 
</verse>
<verse>
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं

कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः ।

ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
 

मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥
 
</verse>
</page>