This page has not been fully proofread.

शिवानन्दलहरी ।
 
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मन:-
 
कुम्भे साम्ब तवापिल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
 
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥
 
आम्नायाम्बुधिमादरेण सुमनः संघाः समुद्यन्मनो
 
३५
 
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणि धीमतां
नित्यानन्दसुधां निरन्तररमा सौभाग्यमातन्वते ॥ ३७ ॥
 
प्राक्पुण्याचलमार्गदर्शित सुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचक: ।
चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥
 
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
 
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥