2026-03-01 17:37:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३४
</ignore>
<ignore>शिवानन्दलहरी ।
</ignore>
<verse>ज्वालालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्कवजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥
</verse>
<verse>नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुति:
तिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥
</verse>
<verse>किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
द्वैधैर्य चंयं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
बृश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥
</verse>
<verse>योगक्षेमधुरंधरस्य सकल श्रेयः प्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥
</verse>
</page>
<ignore>३४
<ignore>शिवानन्दलहरी ।
<verse>ज्वा
दृष्टः किं च करे धृतः करतले किं पक्
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥
<verse>नालं वा सकृदेव देव भवतः सेवा नतिर्वा नु
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥
<verse>किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
द्
बृश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥
<verse>योगक्षेमधुरंधरस्य सकल