2026-02-22 23:57:09 by ambuda-bot
This page has not been fully proofread.
३४
शिवानन्दलहरी ।
ज्वालाग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्कजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुति:
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
द्वैर्य चंदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
देवगणं सन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥
योगक्षेमधुरंधरस्य सकल श्रेयः प्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥