This page has been fully proofread once and needs a second look.

<page>
<ignore>
शिवानन्दलहरी ।
 

३३</ignore>
<verse>
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने

सामीप्यं शिवभक्तिधुर्य जनता सांगत्य संभाषणे ।

सालोक्यं च चराचरात्मकंतनुध्याने भवानीपते
 
३३
 

सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥
 
</verse>
<verse>
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं

त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।

वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्विचिरं प्रार्थितां

शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥
 
</verse>
<verse>
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता

गन्धे गन्धवहात्मतान्नपचने बर्हिर्मुखाध्यक्षता ।

पात्रे काञ्चनगर्भतास्ति मयि चेद्वाबालेन्दुचूडामणे

शुश्रूषां करवाणि ते पशुपते स्वामिमिंस्त्रिलोकीगुरो ॥
 
</verse>
<verse>
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते

पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम् ।
 

सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
 

निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥
 
</verse>
<ignore>
S. S. 3
 
</ignore>
</page>