This page has not been fully proofread.

शिवानन्दलहरी ।
 
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्तिधुर्य जनता सांगत्य संभाषणे ।
सालोक्यं च चराचरात्मकंतनुध्याने भवानीपते
 
३३
 
सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥
 
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्विरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥
 
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मतान्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद्वालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिस्त्रिलोकीगुरो ॥
 
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम् ।
 
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
 
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥
 
S. S. 3