This page has been fully proofread once and needs a second look.

<page>
<ignore>
३२
 
</ignore>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<verse>
कदा वा कैलासे कनकमणिसौधे सह गणै-
 

र्व
ञ्शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।

विभो साम्ब स्वामिन्परमशिव पाहीति निगद-

न्
विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः ॥ २४॥
 
</verse>
<verse>
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
 

गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।

स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
 

कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥
 
</verse>
<verse>
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं

गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।

समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला-
 

नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥
 
</verse>
<verse>
करस्थे हेमाद्रीरौ गिरिश निकटस्थे धनपतौ
 

गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ।

शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
 

कमर्थं दाखेस्येऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥
 
</verse>
</page>