This page has not been fully proofread.

३२
 
शिवानन्दलहरी ।
 
कदा वा कैलासे कनकमणिसौधे सह गणै-
 
सशंभोर स्फुटघटितमूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामिन्परमशिव पाहीति निगद-
विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः ॥ २४॥
 
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
 
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
 
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥
 
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला-
 
नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥
 
करस्थे हेमाद्री गिरिश निकटस्थे धनपतौ
 
गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
 
कमर्थं दाखेऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥