This page has not been fully proofread.

शिवानन्दलहरी ।
 
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
 
नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।
कपालिन भिक्षो मे हृदयकपिमत्यन्तचपलं
 
३१
 
दृढं भक्त्या बद्धा शिव भवदधीनं कुरु विभो ॥ २० ॥
 
धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां
 
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
 
स्मरारे मन्त्रेतःस्फुटपटकुटीं प्राप्य विशदां
 
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ।
 
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
 
प्रवेशोद्युक्तः सम्भ्रमति बहुधा तस्करपते ।
 
इमं चेतश्चोरं कथमिह सहे शंकर विभो
 
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥
 
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
 
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पभिमृगता-
 
मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३ ॥