This page has been fully proofread once and needs a second look.

<page>
<ignore>
३०.
 
</ignore>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<verse>
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-
 

श्
चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।

विचारः को वा मां विशद कृपया पाति शिव ते

कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥
 
</verse>
<verse>
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो

प्रसन्नेऽपि स्वामिन् भवद्मलपादाब्जयुगलम् ।

कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां

निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥
 
</verse>
<verse>
त्वमेको लोकानां परमफलदो दिव्यपदवीं

वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।

कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती

कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥
 
</verse>
<verse>
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
 

दुरन्ते संसारे दुरितनिलये दुःखजनके ।

मदायासं किं न व्यपनयसि कस्योपकृतये
 

वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९॥
 
</verse>
</page>