2026-02-22 23:56:59 by ambuda-bot
This page has not been fully proofread.
शिवानन्दलहरी ।
२९
गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥
असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्य: को दीनस्तव कृपणरश्नातिनिपुण-
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३ ॥
प्रभुत्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्या: शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥
उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां
दुराशा भूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करेनखमुखेनैव लुलितम् ॥ १५ ॥