2026-03-01 08:25:25 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२८
</ignore>
<ignore>शिवानन्दलहरी ।
</ignore>
<verse>यथा बुद्धि:धिः शुक्तौ रजतमिति काचाश्मनि मणि-
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥
</verse>
<verse>गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थथं जडमतिः ।
समप्येकं चेतः सरसिज मुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥
</verse>
<verse>नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-
विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥
</verse>
<verse>वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११ ॥
</verse>
</page>
<ignore>२८
<ignore>शिवानन्दलहरी ।
<verse>यथा बुद्
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥
<verse>गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्
समप्येकं चेतः