This page has not been fully proofread.

२८
 
शिवानन्दलहरी ।
 
यथा बुद्धि: शुक्तौ रजतमिति काचाश्मनि मणि-
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥
 
गभीरे कासारे विशति विजने घोरविपिने
 
विशाले शैले च भ्रमति कुसुमार्थ जडमतिः ।
समप्येकं चेतः सरसिज मुमानाथ भवते
 
सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥
 
नरत्वं देवत्वं नगवनमृगत्वं मशकता
 
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-
 
विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥
 
टुर्वा गेही वा यतिरपि जटी वा तदितरो
 
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
 
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
 
तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११ ॥