This page has been fully proofread once and needs a second look.

.<page>
<ignore>
शिवानन्दलहरी ।
 
</ignore>
<ignore>
२७
 
</ignore>
<verse>
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
 

न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्

हरिब्रह्मादीनामपि निकटभांभाजाम सुलभं
 

चिरं याचे शंभो शिव तव पदाम्भोजभंजनम् ॥ ४ ॥
 
</verse>
<verse>
स्मृतौ शास्त्रे वैद्ये शकुंकुनकवितागान फणितौ
 

पुराणे मन्त्रे वा स्तुतिनदनहास्येष्वचतुरः ।

कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
 

पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥
 
</verse>
<verse>
घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचल:
 
लः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।

वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
 

पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥
 
</verse>
<verse>
मनस्ते पादाब्जे निवसतु वचः स्तोत्र फणितौ

करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।
 

तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे :
 
परप्रन्या

परग्रन्था
न्कैर्वा परमशिव जाने परमतः ॥ ७ ॥
 
</verse>
</page>