2026-02-22 23:56:57 by ambuda-bot
This page has not been fully proofread.
.शिवानन्दलहरी ।
२७
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्
हरिब्रह्मादीनामपि निकटभांजाम सुलभं
चिरं याचे शंभो शिव तव पदाम्भोजभंजनम् ॥ ४ ॥
स्मृतौ शास्त्रे वैद्ये शकुंनकवितागान फणितौ
पुराणे मत्रे वा स्तुतिनदनहास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥
घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचल:
पटो वा तन्तु परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्र फणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे :
परप्रन्यान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥