2026-02-22 23:56:56 by ambuda-bot
This page has not been fully proofread.
11. ff: 11
॥ शिवानन्दलहरी ॥
कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः-
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु
शिवाभ्यामस्तोकत्रिभुवन शिवाभ्यां हृदि पुन-
मे 1
भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १॥
गलन्ती शंभो त्वच्चरितसरित: किल्बिषरजो
दलन्ती धीकुल्या सरणिषु पतन्ती विजयताम् ।
दिशन्ती संसारभ्रमणपरितापोपशमनं
वसन्ती मतोदभुवि शिवानन्दलहरी ॥ २ ॥
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं विनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपति
चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥