2026-02-22 23:56:54 by ambuda-bot
This page has not been fully proofread.
शिवभुजंगम् ।
शिवायेति शब्दो नमः पूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महेशान मा गान्मनस्तो वचस्तः
सदा ममेतत्प्रदानं प्रयच्छ ॥ ३२ ॥
त्वमप्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥
अनुद्यल्ललाटाक्षिवह्निप्ररोह-
रवांमस्फुरच्चारुवामोरुशोभैः ।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥
अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
दपाणौकपालाद फालेनलाक्षात् ।
अमौळौशशाङ्कादवामेकलत्रा-
दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥
२३
शिवायेति शब्दो नमः पूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महेशान मा गान्मनस्तो वचस्तः
सदा ममेतत्प्रदानं प्रयच्छ ॥ ३२ ॥
त्वमप्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥
अनुद्यल्ललाटाक्षिवह्निप्ररोह-
रवांमस्फुरच्चारुवामोरुशोभैः ।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥
अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
दपाणौकपालाद फालेनलाक्षात् ।
अमौळौशशाङ्कादवामेकलत्रा-
दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥
२३