This page has not been fully proofread.

२२
 
शिवभुजंगम् ।
 
यदा श्वेतपत्रायतायशक्तेः
 
कृतान्ताद्भयं भक्तवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं
 
न पश्यामि पातारमेतादृशं मे ॥ २८ ॥
 
इदानीमिदानीं मृतिर्भे भवित्री-
 
त्यही संततं चिन्तया पीडितोऽस्मि ।
 
कथं नाम मा भून्मृतौ भीतिरेषा
 
नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥
 
अमर्यादमेवाहमाबालवृद्धं
 
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
 
मृतौ तावकाङ्क्षय दिव्यप्रसादा-
 
वानीपते निर्भयोऽहं भवानि ॥ ३० ॥
 
जराजन्मगर्भाधिवासादिदुःखा-
 
न्यसह्यानि जह्यां जगन्नाथ देव ।
 
भवन्तं विना मे गतिर्नैव शंभो
 
। दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥