This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०
 
</ignore>
<ignore>
शिवभुजंगम् ।
 
</ignore>
<verse>
यदा कर्णरन्धंध्रं व्रजेत्कालवाह-
 

द्विषत्कण्ठघण्टाघणात्कारनादः ।
 

वृषाधीशमारुह्य देवोवौपवाह्यं
 

तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥
 
</verse>
<verse>
यदा दारुणाभाषणा भीषणा मे
 

भविष्यन्त्युपान्ते कृतान्तस्य दूता:ताः
 

तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
 

कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥
 
</verse>
<verse>
यदा दुर्निवारव्यथोऽहं शयानो

लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
 
तदा

तदा जह्नु
जहुकन्याजलालंकृतं ते
 

जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥
 
</verse>
<verse>
यदा पुत्रमित्रादयो मत्सकाशे
 

रुदन्त्यस्य हा कीदृशीयं दशेति ।
 

तदा देवदेवेश गौरीश शंभो
 

नमस्ते शिवायेत्यजत्स्रं ब्रवाणि ॥ २३ ॥
 
</verse>
</page>