This page has not been fully proofread.

२०
 
शिवभुजंगम् ।
 
यदा कर्णरन्धं व्रजेत्कालवाह-
 
द्विषत्कण्ठघण्टाघणात्कारनादः ।
 
वृषाधीशमारुह्य देवोपवाह्यं
 
तदा वत्स मा भीरिति प्रीणयत्वम् ॥ २० ॥
 
यदा दारुणाभाषणा भीषणा मे
 
भविष्यन्त्युपान्ते कृतान्तस्य दूता: ।
 
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
 
कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥
 
यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
 
तदा जहुकन्याजलालंकृतं ते
 
जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥
 
यदा पुत्रमित्रादयो मत्सकाशे
 
रुदन्त्यस्य हा कीदृशीयं दशेति ।
 
तदा देवदेवेश गौरीश शंभो
 
नमस्ते शिवायेत्यजत्रं ब्रवाणि ॥ २३ ॥