This page has not been fully proofread.

शिवभुजंगम् ।
 
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
 
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शंभो
 
१९
 
. ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥
 
त्वदक्ष्णोः कटाक्षः पतेत्यक्ष यत्र
 
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमाला-
 
कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥
 
भवान्यै भवायापि मात्रे च पित्रे
 
मृडान्यै मृडायाप्यन्यै मने ।
 
शिवाङ्गयै शिवाङ्गाय कुर्मः शिवायै
 
शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥
 
भगौरवं लघुत्वं विदित्वा
 
प्रभो रक्षं कारुण्यदृष्ट्यानुगं माम 1
 
शिवात्मानुभावस्तुतावक्षमोऽहं
 
स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ।