2026-02-22 23:56:48 by ambuda-bot
This page has not been fully proofread.
१८
शिवभुजंगम् ॥
पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्नः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ।
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीश ।
तथाहि प्रसन्नोऽसि कस्यापि कान्ता -
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥
स्तुतिं ध्यानमच यथावद्विधातुं
भजन्नप्यजानन्मद्देशाव लम्बे ।
सन्तं सुतं त्रातुम मृकण्डो-
प्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥
शिरोदृष्टिहृद्रोगशूलप्रमेह-
ज्वरार्शोजरायक्ष्महिक्काविषार्तान ।
त्वमाद्यो भिषग्भेषजं भस्म शंभो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥
शिवभुजंगम् ॥
पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्नः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ।
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीश ।
तथाहि प्रसन्नोऽसि कस्यापि कान्ता -
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥
स्तुतिं ध्यानमच यथावद्विधातुं
भजन्नप्यजानन्मद्देशाव लम्बे ।
सन्तं सुतं त्रातुम मृकण्डो-
प्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥
शिरोदृष्टिहृद्रोगशूलप्रमेह-
ज्वरार्शोजरायक्ष्महिक्काविषार्तान ।
त्वमाद्यो भिषग्भेषजं भस्म शंभो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥