2026-02-22 23:56:38 by ambuda-bot
This page has not been fully proofread.
१६
शिवभुजंगम् ।
शिवेशानतत्पुरुषाघोरवामा-
दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य पत्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाह प्रभाशोणमर्ध
मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्त:
स्मरामि स्मरापत्ति संपत्तिहेतोः ॥ ५ ॥
स्वसेवा समायातदेवासुरेन्द्रा-
नमन्मौलिमन्दारमालाभिषक्तम् ।
नमस्यामि शंभो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महः स्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥
शिवभुजंगम् ।
शिवेशानतत्पुरुषाघोरवामा-
दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य पत्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाह प्रभाशोणमर्ध
मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्त:
स्मरामि स्मरापत्ति संपत्तिहेतोः ॥ ५ ॥
स्वसेवा समायातदेवासुरेन्द्रा-
नमन्मौलिमन्दारमालाभिषक्तम् ।
नमस्यामि शंभो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महः स्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥