This page has not been fully proofread.

२६०
 
भवानीभुजंगम् ।
 
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
 
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्व
त्वमानन्दसंवित्स्वरूपां भजेऽहम ॥। १२ ॥
 
श्रुतीनामगम्ये सुवेदागमज्ञा
 
महिनो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमंत्र प्रमुग्धः किलाहम् ॥ १३ ॥
 
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
 
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
 
गति मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
 
शरण्ये वरेण्ये सुकारुण्यमूर्ते
 
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
 
भवारण्यभीतेश्च मां पाहि भद्रे
 
नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥